|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.56. अध्यायः 056
Mahabharata - Vana Parva - Chapter Topics
कलिचोदनया पुष्करेण नलाह्वानम् ॥ 1 ॥ नलपुष्करयोरक्षदेवनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-56-0x(1925)(17994)
एवं स समयं कृत्वा द्वापरेण कलिः सह।
आजगाम ततस्तत्र यत्रराजा स नैषधः ॥ 3-56-1(17995)
स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम्।
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ॥ 3-56-2(17996)
कृत्वा मूत्रमुपस्पृश्य संध्यामन्वास्त नैषधः।
अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥ 3-56-3(17997)
स समाविश्य च नलं समीपं पुष्करस्य च।
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥ 3-56-4(17998)
अक्षद्यूते नलं जेता भवान्हि सहितो मया।
निषधान्प्रतिपद्यस्व जित्वा राज्यं नलं नृपम् ॥ 3-56-5(17999)
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात्।
कलिश्चैव वृषो भूत्वा तं वै पुष्करमन्वयात् ॥ 3-56-6(18000)
आसाद्य तु नलं वीरं पुष्करः परवीरहा।
दीव्यावेत्यब्रवीद्धाता वृषेणेति मुहुर्मुहुः ॥ 3-56-7(18001)
न चक्षमे ततो राजा समाह्वानं महामनाः।
वैदर्भ्याः प्रेक्षमाणायाः प्राप्तकालममन्यत ॥ 3-56-8(18002)
`ततः स राज्ञा सहसा देवितुं संप्रचक्रमे ॥ 3-56-9(18003)
भ्रात्रा देवाभिभूतेन दैवाविष्टो जनाधिपः।'
हिरण्यस्य सुवर्णस्य यानयुग्यस् वाससाम्।
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥ 3-56-10(18004)
तमक्षमदसंमत्तं सुहृदां न तु कश्चन।
निवारणेऽभवच्छक्तो दीव्यमानमरिंदमम् ॥ 3-56-11(18005)
ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत।
राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ॥ 3-56-12(18006)
ततः सूत उपागम्य दमयन्त्यै न्यवेदयत्।
एष पौरजनो देवि द्वारि तिष्ठति कार्यवान् ॥ 3-56-13(18007)
निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः।
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ॥ 3-56-14(18008)
ततः सा बाष्पकलया वाचा दुखेन कर्शिता।
उवाच नैषधं भैमी शोकोपहतचेतना ॥ 3-56-15(18009)
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः।
`वृद्धैर्ब्राह्मणमुख्यैश्च वणिग्भिश्च समन्वितः ॥ 3-56-16(18010)
आगतं सहितं राजंस्त्वत्प्रसादावलम्बनम्।'
तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ॥ 3-56-17(18011)
तां तथा रुचिरापाङ्गीं विलपन्तीं तथाविधाम्।
आविष्टः कलिना राजा नाभ्यभाषत किंचन ॥ 3-56-18(18012)
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः।
नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ॥ 3-56-19(18013)
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च।
युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत ॥ 3-56-20(18014)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि षट्पञ्चाशोऽध्यायः ॥ 65 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-56-1 समयं संकेतम् ॥ 3-56-3 अन्वास्त उपासितवान् ॥ 3-56-4 स कुलिः। नलं समाविश्य रूपान्तरेण पुष्करं चाब्रवीत्। दीव्य द्यूतं कुरु ॥ 3-56-6 वृषः श्रेष्ठः पाशश्रेष्ठो भूत्वा ॥ 3-56-7 वृषेणाक्षमुख्येन। अब्रवीत्प्रीत्येति क. पाठः ॥ 3-56-10 यानेषु युग्यं युगवहं रथादि तस्य ॥ 3-56-19 नायमस्ति नष्टोयमित्यर्थः ॥ 3-56-20 पुण्यः पावनः श्लोको यशो यस्य। अजीयत जितः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|